मम माता देवता...


मम माता देवता ।

मम माता देवता ॥

अतिसरला, मयि मृदुला
गृह कुशला, सा अतुला ॥१॥

पाययति दुग्धं, भोजयति भक्तं
लालयति नित्यं, तोषयति चित्तम् ॥२॥

सायङ्काले नीराजयति
पाठयति च मां शुभङ्करोति

॥श्लो॥ शुभं कुरु त्वं कल्याणम्
आरोग्यं धनसम्पद: ।
दुष्टबुद्धिविनाशाय
दीपज्योतिर्नमोऽस्तु ते ॥

पाठयति च मां शुभङ्ककरोति ॥३॥

रात्रौ अङ्के मां स्वापयति
मधु मधु मधुरं गीतं गायति

आ आ आ आ आऽऽ ॥४॥
- श्री ल.म. चक्रदेव:


"https://sa.wikiquote.org/w/index.php?title=मम_माता_देवता...&oldid=15408" इत्यस्माद् प्रतिप्राप्तम्