मय्येव सकलं जातं...
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद् ब्रह्म अद्वयमस्म्यहम् ॥ - कैवल्योपनिषत् १-१९
सकलं मय्येव जातम्, मयि सर्वं प्रतिष्ठितम्, सर्वं मयि लयं याति, तद् अद्वयं ब्रह्म अहमस्मि –
इति आत्मविदः निश्चयः ॥
व्यवहारदृष्ट्या ज्ञान्यज्ञानिनौ समानत्वेनैव यद्यपि दृश्येते तथापि तयोः ‘ज्ञाने’ अन्तरम् अस्ति ।
अज्ञो हि आत्मनि प्रपञ्चम् अपश्यन्, प्रपञ्चे आत्मानम् एकं सामान्यं मनुष्यं जानाति ॥
ब्रह्मज्ञानी तु आत्मनि विश्वं पश्यति । आत्मस्वरूपमेव पश्यन् ब्रह्मज्ञानी आत्मानं परिपूर्णं पश्यति ।
आत्मनः एव विश्वम्, आत्मन्येव विश्वम्, समस्तस्यापि विश्वस्य आत्मैव आधारभूतः इति ज्ञानी
अवगच्छति । देहादीन् उपाधीन् अविद्याकल्पितान् विजानतः ब्रह्मज्ञानिनः अध्यासः स्वप्नेऽपि न हि
सम्भवति । ब्रह्मज्ञानी नाम ब्रह्मस्वरूप एव । एवं हि ज्ञानिनः निश्चयः । केवलं देह एव अहम् इति
अज्ञानिनां निश्चितं ज्ञानम् । अहं जातः, अहं म्रिये इति अज्ञाः मन्यन्ते । इदमेव हि उभयोरपि
ज्ञान्यज्ञानिनोः अन्तरम् !