मरणं प्रकृतिः शरीरिणां...

सुभाषितम्

मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः ।
क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ॥

रघुवंशम् (८/८७)

maraṇaṃ prakṛtiḥ śarīriṇāṃ vikṛtirjīvitamucyate budhaiḥ ।
kṣaṇamapyavatiṣṭhate śvasan yadi janturnanu lābhavānasau ॥

पदच्छेदः

मरणं, प्रकृतिः, शरीरिणां, विकृतिः, जीवितम्, उच्यते, बुधैः,क्षणम्, अपि, अवतिष्ठते, श्वसन्, यदि, जन्तुः, ननु, लाभवानसौ ॥


तात्पर्यम्

सर्वेषां प्राणिनां मरणं स्वभावसिद्धम् । तत् परिहर्तुं केनापि न शक्यते । जातस्य मरणं निश्चितम् एव । किन्तु जीवनं न निश्चितम् । तत् आकस्मिकं, न तु स्वभावसिद्धम् । अद्यैव जीवनं समाप्तं स्यात्, अथवा श्वः । जीवितस्य पुरुषस्य मरणं भवत्येव । किन्तु मृतस्य पुनः जीवितं भविष्यति इत्यत्र न निश्चयः । अतः क्षणकालमपि जीवः यदि देहे तिष्ठति तर्हि तदेव प्राणिनां महालाभः । किञ्च, मरणेऽपि शोकः न कार्यः । यतः मरणं प्राणिनां स्वाभाविकम् । यावज्जीवं सन्तोषेण जीवेत् । यतः दुर्लभं जीवनम् अस्माभिः प्राप्तम् अस्ति ।


आङ्ग्लार्थः

Death is natural while life is accidental to mortals; if, therefore, a living being should remain breathing even for a moment on earth, still it is a gainer.