<poem> यदा मर्कट्यः वृक्षशाखाग्रात् उत्कूर्दन्ति तदा मर्कटशिशवः मातुः उदरम् आश्लिष्य दृढं तिष्ठन्ति । ततः ते कदापि न पतन्ति । शिशूनां ग्रहणं मातुः कार्यं नास्ति । एवमेव भकताः एकनिष्ठया ईश्वरम् आश्रित्य मोक्षम् आप्नुवन्ति इति भावः । भक्ताः ईश्वरं भक्त्या आश्लिष्य महत्या प्रपत्त्या निश्चिन्ताः भवन्ति चेत् मर्कटकिशोरन्याय इति प्रयोगः । (यदि ईश्वरः भक्तानां संरक्षणादिकं स्वयं वहेत् तर्हि मार्जालकिशोरन्याय इति वैष्णवग्रन्थेषु प्रसिद्धम् अस्ति ।)

"https://sa.wikiquote.org/w/index.php?title=मर्कटकिशोरन्यायः&oldid=12472" इत्यस्माद् प्रतिप्राप्तम्