<poem> मर्कटः अतीव चपलः भवति । तादृशः यदि मदिरां पिबति तर्हि तस्य कीदृशी स्थितिः भवेत् । तन्न वक्तव्यम् एव । यदि सः मर्कटः पिशाचग्रस्तः ततः वृश्चिकेन च दष्टः तर्हि तस्य किं वर्णनीयम् ? एवम् अनर्थपरम्परया पीडितस्य स्थितिः अपि अत्यन्तचञ्चला भवति इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=मर्कटमदिरान्यायः&oldid=14590" इत्यस्माद् प्रतिप्राप्तम्