सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा।
धृतराष्ट्र विमुञ्चेच्छां न कथञ्चिन्न जीव्यते॥ उद्योग. ३९/८३॥

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
नालमेकस्य तत् सर्वमिति पश्यन् न मुह्यति॥ उद्योग. ३९/८४॥

कुले जातस्य वृद्धस्य परवित्तेषु गृद्ध्यतः।
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम्॥ उद्योग. ७२/१८॥

ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम्।
श्रीर्हता पुरुषं हन्ति पुरुषस्याधनं वधः॥ उद्योग. ७२/१९॥

न लुब्धो बुध्यते दोषांल्लोभान्मोहात् प्रवर्तते॥ द्रोण. ५१/११॥

एको निवारयामास लोभः सर्वगुणानिव॥ द्रोण. ९९/५६॥

लोभो व्याधिरनन्तकः॥ वन. ३१३/९२॥

लुब्धं हन्यात् सम्प्रदानेन नित्यं लुब्धस्तृप्तिं परवित्तस्य नैति।
सर्वो लुब्धः कर्मगुणोपभोगे योऽर्थैर्हीनो धर्मकामौ जहाति॥ शान्ति.१२०/४७॥

धनं भोगं पुत्रदारं समृद्धिं सर्वं लुब्धः प्रार्थयते परेषाम्।
लुब्धे दोषाः सम्भवन्तीह सर्वे तस्माद् राजा न प्रगृह्णीत लुब्धम्॥ शान्ति.१२०/४८॥

एको लोभो महाग्राहो लोभात् पापं प्रवर्तते॥ शान्ति.१५८/२॥

अतः पापमधर्मश्च तथा दुःखमनुत्तमम्।
निकृत्या मूलमेतद्धि येन पापकृतो जनाः॥ शान्ति.१५८/३॥

लोभात् क्रोधः प्रभवति लोभात् कामः प्रवर्तते।
लोभान्मोहश्च माया च मानः स्तम्भः परासुता॥ शान्ति.१५८/४॥

अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः।
अभिध्या प्रख्यता चैव सर्वं लोभात् प्रवर्तते॥ शान्ति.१५८/५॥

अत्यागश्चातितर्षश्च विकर्मसु च याः क्रियाः।
कुल विद्यामदश्चैव रूपैश्वर्यमदस्तथा॥ शान्ति.१५८/६॥

सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वसत्कृतिः।
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम्॥ शान्ति.१५८/७॥

हरनं परवित्तानां परदाराभिमर्शनम्।
वाग्वेगो मनसो वेगो निन्दावेगस्तथैव च॥ शान्ति.१५८/८॥

उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः।
ईर्ष्या वेगश्च बलवान् मिथ्यावेगश्च दुर्जयः॥ शान्ति.१५८/९॥

रसवेगश्च दुर्वार्यः श्रोत्रवेगश्च दुःसहः।
कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता॥ शान्ति.१५८/१०॥

साहसानां च सर्वेषामकार्याणां क्रियास्तथा।
जातौ बाल्ये च कौमारे यौवने चापि मानवाः।
न संत्यजन्त्यात्मकर्म यो न जीर्यति जीर्यतः॥ शान्ति.१५८/११॥

यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह।
नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः॥ शान्ति.१५८/१२॥

न प्रहृष्यति यो लाभैः कामैर्यश्च न तृप्यति॥ शान्ति.१५८/१३॥

यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः।
ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा॥ शान्ति.१५८/१४॥

दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा॥ शान्ति.१५८/१५॥

भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम्।
सुमहान्त्यपि शास्त्राणि धारयन्ति बहुश्रुताः॥ शान्ति.१५८/१६॥

छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः।
द्वेष क्रोध प्रसक्ताश्च शिष्टाचार बहिष्कृताः॥ शान्ति.१५८/१७॥

अन्तःक्रूरा वाङ्मधुराः कूपाश्छन्नतृणैरिव।
धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत्॥ शान्ति.१५८/१८॥

धर्मस्य ह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः।
या या विक्रियते संस्था ततः सापि प्रपद्यते॥ शान्ति.१५८/२०॥

दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता।
एत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु॥ शान्ति.१५८/२१॥

अज्ञान प्रभवो लोभो भूतानां दृश्यते सदा।
अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा निवर्तते॥ शान्ति.१६३/२१॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(लोभः)&oldid=15525" इत्यस्माद् प्रतिप्राप्तम्