महाभारतसूक्तयः(वानप्रस्थाश्रमः)

स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी।
तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहारचेष्टः॥ आदि. ९१/४॥

गृहस्थस्तु यदा पश्येद् वलीपलितमात्मनः।
अपत्यस्यैव चापत्यं वनमेव तदा श्रयेत्॥ शान्ति. २४४/४॥

नियतो नियताहारः षष्ठभुक्तोऽप्रमत्तवान्।
तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः॥ शान्ति. २४४/६॥

देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः॥ शान्ति. २७७/२६॥

गृहवासं समुत्सृज्य निश्चित्यैकमनाः शुभैः।
वन्यैरेव सदाहारैवर्तयेदिति च स्थितिः॥ अनु. १४१ दा. पा.॥

भूमिशय्या जटाश्मश्रु चर्मवल्कल धारणम्।
देवतातिथिसत्कारो महाकृच्छ्राभिपूजनम्॥
अग्निहोत्रं त्रिषवणं तस्य नित्यं विधीयते।
ब्रह्मचर्यं क्षमा शौचं तस्य धर्मः सनातनः॥ अनु. १४१ दा. पा.॥

अवस्थाप्य मनो धृत्या व्यवसायपुरस्सरः।
निर्द्वन्द्वो वा सदारो वा वनवासाय स व्रजेत्॥ अनु. १४२/५-६ दा. पा.॥

वननित्यैर्वनचरैर्वनस्थैर्वनगोचरैः।
वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः॥ अनु. १४२/१३॥