महाभारतसूक्तयः(वायुः)
न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित्॥ शान्ति. १५५/९॥
यच्च किंचिदिह प्राणी चेष्टते शाल्मले भुवि।
सर्वत्र भगवान् वायुश्चेष्टाप्राणकरः प्रभुः॥ शान्ति. १५५/११॥
एष चेष्टयते सम्यक् प्राणिनः सम्यगायतः।
असम्यगायतो भूयश्चेष्टते विकृतं नृषु॥ शान्ति. १५५/१२॥
प्रेरयत्यभ्रसंघातान् धूमजांश्चोष्मजांश्च यः।
प्रथमः प्रथमे मार्गे प्रवहो नाम योऽनिलः॥ शान्ति. ३२८/३६॥
अम्बरे स्नेहमभ्येत्य विद्युद्भ्यश्च महाद्युतिः।
आवहो नाम संवाति द्वितीयः श्वसनो नदन्॥ शान्ति. ३२८/३७॥
उदयं ज्योतिषां शाश्वत् सोमादीनां करोति यः।
अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः॥ शान्ति. ३२८/३८॥
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम्।
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः॥ शान्ति. ३२८/३९॥
योऽद्भिः संयोज्य जीमूतान् पर्जन्याय प्रयच्छति।
उद्वहो नाम वंहिष्ठस्तृतीयः स सदागतिः॥ शान्ति. ३२८/४०॥
समूह्यमाना बहुधा येन नीताः पृथग् धनाः।
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः॥ शान्ति. ३२८/४१॥
संहता येन चाविद्धा भवन्ति नदतां नदाः।
रक्षणार्थाय सम्भूता मेघत्वमुपयान्ति च॥ शान्ति. ३२८/४२॥
योऽसौ वहति भूतानां विमानानि विहायसा।
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः॥ शान्ति. ३२८/४३॥
येन वेगवता रुग्णा रूक्षेण रुवता नगान्।
वायुना सहिता मेघास्ते भवन्ति बलाहकाः॥ शान्ति. ३२८/४४॥
दारुणोत्पातसंचारो नभसः स्तनयित्नुमान्।
पञ्चमः स महावेगो विवहो नाम मारुतः॥ शान्ति. ३२८/४५॥
यस्मिन् परिप्लवा दिव्या वहन्त्यापो विहायसा।
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति॥ शान्ति. ३२८/४६॥
दूरात् प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः।
योनिरंशुसहस्रस्य येन भाति वसुन्धरा॥ शान्ति. ३२८/४७॥
यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च।
षष्ठः परिवहो नाम स वायुर्जयतां वरः॥ शान्ति. ३२८/४८॥
सर्वप्राणभृतां प्राणान् योऽन्तकाले निरस्यति।
यस्य वर्त्मानुवर्तेते मृत्यु र्वैवस्वतावुभौ॥ शान्ति. ३२८/४९॥
सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया।
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते॥ शान्ति. ३२८/५०॥
यं समासाद्य वेगेन दिशोऽन्तं प्रतिपेदिरे।
दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः॥ शान्ति. ३२८/५१॥
येन स्पृष्टः पराभूतो यात्येव न निवर्तते।
परावहो नाम परो वायुः स दुरतिक्रमः॥ शान्ति. ३२८/५२॥