महाभारतसूक्तयः(विषयभोगः)
न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥ आदि. ७५/५०॥ ८५/१२॥
पृथिवी रत्नसम्पूर्णा हिरण्यं पशवः स्त्रियः।
नालमेकस्य तत् सर्वमिति मत्वा शमं व्रजेत्॥ आदि. ७५/५१॥ ८५/१३॥
कामाभिध्या स्वशरीरं दुनोति यया प्रमुक्तो न करोति दुःखम्।
यथेध्यमानस्य समिद्धतेजसो भूयो बलं वर्धते पावकस्य॥ उद्योग. २६/५॥
कामार्थलाभेन तथैव भूयो न तृप्यते सर्पिषेवाग्निरिद्धः॥ उद्योग. २६/६॥
कामा मनुष्यं प्रसजन्त एते धर्मस्य ये विघ्नमूलं नरेन्द्र।
पूवं नरस्तान् मतिमान् प्रणिघ्नल्लोके प्रशंसां लभतेऽनवद्याम्॥ उद्योग. २७/४॥
तद् वै महामोहनमिन्द्रियाणां मिथ्यार्थयोगस्य गतिर्हि नित्या।
मिथ्यार्थयोगाभिहतान्तरात्मा स्मरन्नुपास्ते विषयान् समन्तात्॥ उद्योग. ४२/१०॥
कामानुसारी पुरुषः कामाननु विनश्यति।
कामान् व्युदस्य धुनुते यत् किंचित् पुरुषो रजः॥ उद्योग. ४२/१३॥
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः॥ उद्योग. ७२/२३॥
तेषु भोगेषु सर्वेषु न भीतो लभते सुखम्।
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः।
नावगच्छन्त्यविज्ञानादात्मानं पार्थिवं गुणम्॥ शान्ति. २१२/१०॥
दुरन्तेष्विन्द्रियार्येषु सक्ताः सीदन्ति जन्तवः।
ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम्॥ शान्ति. २१५/१॥
इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता।
रसने दर्शने घ्राणे श्रवणे च विशाम्पते॥ शान्ति. २९५/३२॥
मनुष्यमसुखं प्राप्य यः सज्जति स मुह्यति।
नालं स दुःखमोक्षाय संयोगो दुःखलक्षण्म्॥ शान्ति. ३२९/८॥
सक्तस्य बुद्धिश्चलति मोहजालविवर्धनी।
मोहजालावृतो दुःखमिह चामुत्र सोऽनुश्ते॥ शान्ति. ३२९/९॥
निरामिषा न शोचन्ति त्यजेदामिषमात्मनः।
परित्यज्यामिषं सौम्य दुःखतापाद् विमोक्ष्यसे॥ शान्ति. ३२९/२१॥
तपोनित्येन दान्तेन मुनिना संयतात्मना।
अजितं जेतु कामेन भाव्यं सङ्गेष्वसङ्गिना॥ शान्ति. ३२९/२२॥
गुणसङ्गेष्वनासक्त एकचर्यारतः सदा।
ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम्॥ शान्ति. ३२९/२३॥
द्वन्द्वारामेषु भूतेषु य एको रमते मुनिः।
विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति॥ शान्ति. ३२९/२४॥