महाभारतसूक्तयः(वेदाङ्गम्)

तिथिनक्षत्रयोगानां मुहूर्तकरणात्मकम्।
कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं पुरानघ॥ आश्व. ९२ दा. पा. अ. XVI॥

ॠग्यजुः साम मन्त्राणां श्लोकतत्वार्थ चिन्तनात्।
प्रत्यापत्ति विकल्पानां छन्दोज्ञानं प्रकल्पितम्॥ आश्व. ९२ दा. पा. अ. XVI॥

वर्णाक्षरपदार्थानां संधिलिङ्गं प्रकीर्तितम्।
नामधातु विवेककार्यं पुरा व्याकरणं स्मृतम्॥ आश्व. ९२ दा. पा. अ. XVI॥

यूपवेद्यध्वरार्थं तु प्रोक्षण श्रपणाय तु।
यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम्॥ आश्व. ९२ दा. पा. अ. XVI॥

यज्ञपात्रपवित्रार्थं द्रव्यसम्भरणाय च।
सर्वयज्ञविकल्पाय पुरा कल्पं प्रकीर्तितम्॥ आश्व. ९२ दा. पा. अ. XVI॥

नामधातुविकल्पानां तत्त्वार्थनियमाय च।
सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम्॥ आश्व. ९२ दा. पा. अ. XVI॥