महाभारतसूक्तयः(वैरम्)
वैरं विकारं सृजति तद् वै शस्त्रमनायसम्॥ सभा. ५६/११॥
स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते।
न स्त्रीषु राजन् रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः॥ उद्योग. ३६/५५॥
न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः।
न वै भिन्ना गौरवं प्राप्नुवन्ति न वै भिन्नाः प्रशमं रोचयन्ति॥ उद्योग. ३६/५६॥
न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नैव तेषाम्।
भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किंचिदन्यद् विनाशात्॥ उद्योग. ३६/५७॥
महते योऽपकाराय नरस्य प्रभवेन्नरः।
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत्॥ उद्योग. ३७/५६॥
वैरसंदीपनावेतौ लोभामर्षौ नराधिप॥ शान्ति. १०७/१०॥
सकृत् कृतापराधस्य तत्रैव परिलम्बतः।
न तद् बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम्॥ शान्ति. १३९/२५॥
सान्त्वे प्रयुक्ते सततं कृतवैरे न विश्वसेत्।
क्षिप्रं स वध्यते मूढो न हि वैरं प्रशाम्यति॥ शान्ति. १३९/२६॥
सर्वेषां कृतवैराणामविश्वासः सुखोदय॥ शान्ति. १३९/२८॥
अन्योन्यकृतवैराणां न सन्धिरुपपद्यते॥ शान्ति. १३९/३१॥
नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत्।
विश्वासद् बध्यते लोके तस्माच्छ्रेयोऽप्यदर्शनम्॥ शान्ति. १३९/३८॥
अन्योन्यकृतवैराणां संवासान्मृदुतां गतम्।
नैव तिष्ठति तद् वैरं पुष्करस्थमिवोदकम्॥ शान्ति. १३९/४१॥
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः।
स्त्रीकृतं वास्तुजं वाग्जं ससापत्नापराधजम्॥ शान्ति. १३९/४२॥
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि।
छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु॥ शान्ति. १३९/४४॥
न हि वैराग्निरुद्भूतः कर्म चाप्यपराधजम्।
शाम्यत्यदग्ध्वा नृपते विना ह्येकतर क्षयात्॥ शान्ति. १३९/४६॥
वैरमन्तिकमासाद्य यः प्रीतिं कर्तुमिच्छति।
मृन्मयस्येव भग्नस्य यथा सन्धिर्न विद्यते॥ शान्ति. १३९/६९॥
न हि वैराणि शाम्यन्ति कुले दुःखगतानि च।
आख्यातारश्च विद्यन्ते कुले वै ध्रियते पुमान्॥ शान्ति. १३९/७२॥
उपगृह्य तु वैराणि सान्त्वयन्ति नराधिप।
अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि॥ शान्ति. १३९/७३॥
गुरूणां वैर निर्बन्धो न कर्तव्यः कथंचन॥ अनु. १४५ दा. पा. अ. XI॥