महाभारतसूक्तयः(व्रतम्)

शरीरनियमं प्राहुर्ब्राह्मणा मानुषं व्रतम्।
मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः॥ वन. ९३/२१॥

मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप।
मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि द्रक्ष्यथ॥ वन. ९३/२२॥

त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम्।
न दुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत्॥ अनु. १२०/१०॥