महाभारतसूक्तयः(शक्तिः)

वीर्यश्रेष्ठाश्च राजानो बलं धर्मोऽनुवर्तते॥ आदि. १३५/१९॥

शूराणां च नदीनां च दुर्विदाः प्रभवाः किल॥ आदि. १३६/११॥

स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ॥ आदि. २०१/१८॥

अनारम्भपरो राजा वल्मीक इव सीदति।
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति॥ सभा. १५/११॥

कृतवीर्य कुले जातो निर्वीर्यः किं करिष्यति।
नीर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते॥ सभा. १६/९॥

दैन्यं यथा बलवति तथा मोहो बलान्विते।
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना॥ सभा. १६/१४॥

राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम्।
रूपयौवन सौभाग्यं स्त्रीणां बलमनुत्तमम्॥ शान्ति. ३२०/७३॥

सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि।
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम्॥ आश्रमवास. ३०/२४॥