महाभारतसूक्तयः(शत्रुः)
शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका।
यो वै संतापयति यं स शत्रुः प्रोच्यते नृप॥ सभा. ५५/१०॥
नास्ति वै जातितः शत्रुः पुरुषस्य विशाम्पते।
येन सधारणी वृत्तिः स शत्रुर्नेतरो जनः॥ सभा. ५५/१५॥
शत्रुपक्षं समृध्यन्तं यो मोहात् समुपेक्षते।
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः॥ सभा. ५५/१६॥
अल्पोऽपि ह्यरिरत्यर्थं वर्धमानः पराक्रमैः।
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात्॥ सभा. ५५/१७॥
सर्वोपायै र्निहन्तव्याः शत्रवः शत्रुसूदन॥ सभा. ७४/८॥
सर्वैः पराक्रमै र्वीर वध्यः शत्रुरमित्रहन्।
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा॥ वन. २२/२३॥
न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः।
न्यग्भूत्वा पर्युपासीत वध्यं हन्याद् बले सति।
अहताद्धि भयं तस्माज्जायते नचिरादिव॥ उद्योग. ३८/२९॥
द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः।
प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह॥ उद्योग. ३९/४॥
प्राग्विरुद्धैः शमं सद्भिः काथं वा क्रियते पुनः॥ उद्योग. ४९/३२॥
न लब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः॥ उद्योग. १३४/२८॥
पीडाकरममित्राणां यत् स्यात् कर्तव्यमेव तत्॥ द्रोण. १४३/६८॥
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा।
अल्पोऽपि दहत्यग्निर्विषमल्पं हिनस्ति च॥ शान्ति. ५८/१७॥
अरोर्हि दुर्हृदाद् भेयं भग्नपुच्छादिवोरगात्॥ शान्ति. ८२/५७॥
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति।
सामर्थ्यं योगात् कार्याणामनित्या वै सदा गतिः॥ शान्ति. १३८/१३॥
श्रेष्ठो हि पण्डितः शत्रुर्न च मित्रमपण्डितः॥ शान्ति. १३८/४६॥
न ह्यमित्रे वशं यान्ति प्राज्ञा निष्कारणं सखे॥ शान्ति. १३८/१९२॥
विश्वासयित्वा द्वेष्टारमवलुम्पेद् यथा वृकः॥ शान्ति. १४०/४६॥
दुःखं सपत्नेषु समृद्धिभावः॥ आश्व. ९/६॥