महाभारतसूक्तयः(शमः)
शम एव यतीनां हि क्षमिणां सिद्धिकारकः।
क्षमावतामयं लोकः परश्चैव क्षमावताम्॥ आदि. ४२/९॥
शममेव परं मन्ये शमात् क्षेमं भवेन्मम॥ सभा. १५/५॥
प्रजानां सन्धिमूलं हि शमम्॥ वन. २९/२९॥
वाचो वेगं मनसः क्रोधवेगं विधित्सावेगमुदरोपस्थवेगम्।
एतान् वेगान् यो विषहेदुदीर्णांस्तं मन्येऽहं ब्राह्मणं वै मुनिं च॥ शान्ति. २९९/१४॥
अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः।
अमानुषान्मानुषो वै विशिष्टस्तथाज्ञानाज्ज्ञानविद् वै विशिष्टः॥ शान्ति. २९९/१५॥
अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः।
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा॥ अनु. १०८/१०॥
शमस्तू परमो धर्मः प्रवृत्तः सत्सु नित्यशः।
गृहस्थानां विशुद्धानां धर्मस्य निचयो महान्॥ अनु. १४१/७०॥