महाभारतसूक्तयः(शरणागतः)

न तस्य बीजं रोहति रोहकाले न तस्य वर्षं वर्षति वर्षकाले।
भीतं प्रपन्नं प्रददाति शत्रवे न स त्रातारं लभते त्राणमिच्छन्॥ उद्योग. १२/१९॥

मोघमन्नं विन्दति चाप्यचेताः स्वर्गाल्लोकाद् भ्रश्यति नष्टचेष्टः।
भीतं प्रपन्नं प्रददाति यो वै न तस्य हव्यं प्रतिगृह्णन्ति देवाः॥ उद्योग. १२/२०॥

प्रमीयते चास्य प्रजा ह्यकाले सदा विवासं पितरोऽस्य कुर्वते।
भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्॥ उद्योग. १२/२१॥

शरणागतस्य कर्त्तव्यमातिथ्यं हि प्रयत्नतः॥ शान्ति. १४६/६॥
न निष्कृतिर्भवेत् तस्य यो हन्याच्छरणागतम्॥ शान्ति. १४९/१९॥

भवेत् स गुरुतल्पी च ब्रह्महा च स वै भवेत्।
सुरापानं स कुर्याच्च यो हन्याच्छरणागतम्॥ अनुशासन. ९६/११॥