महाभारतसूक्तयः(शौचम्)

बाह्यमाभ्यन्तरं चेति द्विविधं शौषमिष्यते।
मानसं सुकृतं यत् तच्छौचमाभ्यन्तरं स्मृतम्॥ अनु. १४५ दा. पा. अ. XI॥

सदाऽऽहारविशुद्धिश्च कायप्रक्षालनं तु यत्।
बाह्यशौचं भवेदेतत् तथैवाचमनादिना॥ अनु. १४५ दा. पा. अ. XI॥

शकृता भूमिशुद्धिः स्याल्लौहानां भस्मना स्मृतम्।
तक्षणं घर्षणं चैव दारवाणां विशोधनम्॥ अनु. १४५ दा. पा. अ. XI॥

दहनं मृण्मयानां च मर्त्यानां कृच्छ्रधारणम्।
शेषाणां देवि सर्वेषामातपेन जलेन च॥ अनु. १४५ दा. पा. अ. XI॥

ब्रह्मचर्यं तपः क्षान्तिर्मधुमांसस्य वर्जनम्।
मर्यादायां स्थितिश्चैव शमः शौचस्य लक्षणम्॥ अनु. ९२ दा. पा. अ. XIII॥

मनश्शौचं कर्मशौचं कुलशौचं च भारत।
शरीरशौचं वाक्छौचं शौचं पञ्चविधं स्मृतम्॥ अनु. ९२ दा. पा. अ. XX॥

पञ्चस्वेतेषु हृदि शौचं विशिष्यते॥ अनु. ९२ दा. पा. अ. XX॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(शौचम्)&oldid=15609" इत्यस्माद् प्रतिप्राप्तम्