महाभारतसूक्तयः(संन्यासाश्रमः)

अशिल्पजीवी गुणवांश्चैव नित्यं जितेन्द्रियः सर्वतो विप्रयुक्तः ।
अनोकशायि लघुरल्पप्रचारश्चरन् देशानेकचरः सस् भिक्षुः ॥ आदि ९१/५

अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः ।
कौपीनाच्छदनं यावत् तावदिच्छेच्च चीवरम् ॥ आदि ९१/१२

यावत् प्राणिभिसन्धानंतावदोच्छेच्च भोजनम् ।
तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥ आदि ९१/१३

यस्तु कामान् परित्यज्य त्यक्तकर्मा जितेन्द्रियः ।
आतिष्ठेच्च मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥ आदि ९१/१४

घौतदन्तं कृत्तनखं सदा स्नातमलंकृतम् ।
असितं सितकर्माणं कस्तमर्हति नार्चितुम् ॥ आदि ९१/१५

साधु क्षमा दमः शौचं वैराग्यं चाप्यमत्सरः ।
अहिंसा सत्यवचनं नित्यानि वनचारिणाम् । शान्ति ७/६

आपत्काले हि सन्यासः कर्तव्य इति शिष्यते ।
जरयाभिपरीतेन शत्रुभिर्व्यंसितेन वा ॥ शान्ति १०/१७

संन्यासः परमं तपः । शान्ति १६१/९

एक एव चरेद् धर्म्ं सिद्ध्यर्थमसहायवान् ॥ शान्ति २४५/ ४

एकश्चरति यः पश्यन् न जहाति न हीयते ।
अनग्निरनिकेतश्च ग्राममन्नर्थमाश्रयेत् ॥ शान्ति २४५/५

अश्वस्तनविधाता स्यान्मुनिर्भावसमाहितः ।
लध्वाशी नियताहारः सकृदन्ननिषेविता ॥ शान्ति २४५/६

कपालं वृक्षमूलानि कुचैलमसहायता ।
उपेक्षा सर्वभूतानामेतावद् भिक्षुलक्षणम् ॥ शान्ति २४५/७

तूष्णिमासीत निन्दायां कुर्वन् भैषज्यमात्मनः ॥ शान्ति २४५/१०

नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षते निर्देशं भृतको यथा । शान्ति २४५/१५

अनभ्याहतचित्तः स्यदनभ्याहतवाग् भवेत् ।
निर्मुक्तिः सर्वपापेभ्यो निरमित्रस्य किं भयम् ॥ शान्ति २४५/१६

अहिसंकः समः सत्यो धृतिमान् नियतेन्द्रियः ।
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ॥ शान्ति २४५/२०

एवं प्रज्ञानतृप्तस्य निर्भयस्य निराशिषः ।
न मृत्युरतिगो भावः स मृत्युमधिगच्छति ॥ शान्ति २४५/२१

सन्तोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते ।
अपवर्गमतिर्नित्यो यति धर्मः सनातनः ॥ शान्ति २७०/३१

मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः ।
एतत् पवित्रं परमं परिव्रजाक आश्रमे ॥ शान्ति २७८/१८

वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् ।
अज्ञातलिप्सं लिप्सेत न चैनं हर्षं आविशेत् ॥ शान्ति २७८/२०

विजानतां मोक्ष एषा श्रमः स्यादाविजाजताम् । शान्ति २७८/२१

अभयं सर्वभूतेभ्यो दत्तवा यः प्रव्रजेद् गृहात् ।
लोकास्तेजोमयास्तस्य तथाऽऽनन्त्याय कल्पते ॥- शान्ति २७८/२२

काषायधारणं मौण्ड्यं त्रिविष्टब्धं कमणडलुम् ।
लिङ्गायुप्थभूतानि न मोक्षायेतिमे मतिः ॥ - शान्ति ३२०/४७

यदि सत्यापि लिङ्गेऽस्मिन् जानमेवत्र कारणम् ।
निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् ॥ -- शान्ति ३२०/४८

यति धर्मास्तथा देवि गृहांस्त्यक्त्वा यस्ततः ।
आकिञ्चन्यमनारम्भः सर्वतः शौचमार्जवम् ॥
सर्वत्र भौक्षचर्यां च सर्वत्रैव विवासनम् ।
सदा ध्यानपरत्वं च दोषशुद्धिः क्षमा दया ।
तत्वानुगतबुद्धित्वं तस्य शर्मविधिर्भवेत् ॥ -- अनुशासन् १४१ दा० पा०

चर्तुर्विधा भिक्श्हवस्ते कुटिचकबहूदकौ ।
हंसः परमहंसश्च यो यः पश्चात् स उत्तमः ॥-- अनुशासन् १४१/८९