महाभारतसूक्तयः(सेवकः)

यस्तात् न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य ।
तस्मिन् भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥ ---- उद्योग ३७/२२

न भृत्यानां वृत्तिसंरोधनेन राज्यं धनं संजिघृक्षेदपूर्वम् ।
त्यजन्ति ह्योनं वञ्चिता वै विरुद्धा ह्यमात्या परिहीनभोगाः ॥ ---- उद्योग ३७/२३

अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्री ।
वक्त हितनामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥ ----- उद्योग ३७/२५

वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः ।
प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैव भृत्यः ॥ ---- उद्योग ३७/२६

भृत्येभ्यो विसृजेदर्थान् नैकः सर्वहरो भवेत् ॥ -----उद्योग ३८/२७

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(सेवकः)&oldid=15657" इत्यस्माद् प्रतिप्राप्तम्