महाभारतसूक्तयः(स्वप्नः)

इन्द्रियाणाम् श्रमात् स्वप्नमाहुः सर्वगतं बुधाः ।
मनसस्त्वप्रलीनत्वात् तत् तदाहुर्निदर्शनम् ॥ -----शान्ति २१६/६

संस्कारणामसंख्यानां कामात्मा तदावाप्नुयात् ।
मनस्यन्तर्हितं सर्वं स वेदोत्तमपूरुषः ॥ ------ शान्ति २१६/८

प्रसन्नैरिन्द्रियैर्यद् यत् संकल्पयति मानसम् ।
तत् तत् स्वप्नेऽप्युपगते मनोहृष्यन्निरीक्षते ॥----- शान्ति २१६/१२

व्यापकं सर्वभूतेषु वर्ततेऽप्रतिघं मनः ।
आत्मप्रभावात् विद्यात् सर्वा ह्यात्मनि देवताः ॥ -- शान्ति २१६/१३

इन्द्रियाणां व्युपरमे मनोऽव्युपरतं यदि ।
सेवते विषयानेव तं विद्यात् स्वप्नदर्शनम् ॥ ------ शान्ति २७५/२४

सुप्तानां हि मनश्चेष्टा स्वप्न इत्यभिधीयते ।
अनागतमतिक्रान्तं पश्यते संचरमनः ॥ -- अनु १४५ दा० पा० अ० IX