महाभारतसूक्तयः(स्वार्थः )

स्वार्थो हि बलवत्तरः ॥ शान्ति १३८/१४२

अर्थयुक्त्या हि जायन्ते पिता माता सुतस्तथा ।
मातुला भागिनेयाश्च तथा सम्बन्धिबान्धवाः ॥शान्ति १३८/१४५

पुत्रं हि मातापितरौ त्यजतः पिततं प्रियम् ।
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् ॥शान्ति १३८/१४६

कारणात् प्रियतामेति द्वेष्यो भवति कारणात् ॥ शान्ति १३८/१५१

अर्थार्थी जीवलोकोऽयं न कश्चित् कस्यचित् प्रियः ।
सख्यं सोदर्योर्भ्रात्रोर्दम्पत्योर्वा परस्परम् ।
कस्यचिन्नाभिजानामि प्रीतिं निष्कारणमिह ॥शान्ति १३८/१५३

प्रियो भवति दानेन प्रियवादेन चापरः ।
मन्त्र होमजपैरन्यः कार्यार्थं प्रियते जन: ॥शान्ति १३८/१५४

कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते ॥ शान्ति १३८/१५७

संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः ।
भार्या पुत्रश्च दासश्च स्वमर्थमनुयुज्यते ॥ शान्ति २९८/३८