महाभारतसूक्तयः (अधार्मिकपुरुषः)

पित्रा विवदते पुत्रो यश्च स्याद् गुरुतल्पगः।
अप्रजायन् नरव्याघ्र भवत्यधार्मिको नरः॥ शान्ति ३४/१४॥

पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहष्यति॥ शान्ति ९५/१८॥

स वर्धमानः स्तेयेन पापः पापे प्रसज्जति।
न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव॥ शान्ति ९५/१९॥

अश्रद्दधानश्च भवेद् विनाशमुपगच्छति।
सम्बध्दो वारुणैः पाशैरमर्त्य इव मन्यते॥ शान्ति ९५/२०॥

नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो जनाः। अनु १६२/२८॥

दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः॥ अनु १६२/३४॥