महाभारतसूक्तयः (अध्यात्मवनम्)
संकल्यदंशमशकं शोकहर्षहिमातपम्।
मोहान्धकारतिमिरं लोभव्याधिसरीसृपम्॥ आश्व २७/१॥
विषयैकात्ययाध्वानं कामक्रोध विरोधकम्।
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद् वनम्॥ आश्व २७/२॥
नैतदस्ति पृथग्भावः किंचिदन्यत् ततः सुखम्।
नैतदस्त्यपृथग्भावः किंचिद् दुःखतरं ततः॥ आश्व २७/४॥
न तत्राविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः।
न च बिभ्यति केषांचित् तेभ्यो बिभ्यति केचन॥ आश्व २७/६॥
प्रज्ञावृक्षं मोक्षफलं शान्तिच्छायासमन्वितम्।
ज्ञानाश्रयं तृप्तितोयमन्तः क्षेत्रज्ञभास्करम्॥ आश्व २७/१५॥
यशो वर्चो भगश्चैव विजयः सिद्धतेजसः।
एवमेवानुवर्तन्ते सप्तज्योतींषि भास्करम्॥ आश्व २७/१९॥