महाभारतसूक्तयः (अर्थः)

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्॥ भीष्म८३/४१॥

अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः।
न ह्यृतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः॥ शान्ति. १६७/१२॥

विषयैरर्थवान् धर्ममाराधयितुमुत्तमम्।
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः॥ शान्ति. १६७/१३॥

अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः।
अर्थसिद्ध्या विनिर्वृत्तावुभावेतौ भविष्यतः॥ शान्ति. १६७/१४॥

जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः।
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक्॥ शान्ति. १६७/१६॥

आस्तिका नास्तिकाश्चैव नियताः संयमे परे।
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता॥ शान्ति. १६७/१९॥

भृत्यान् भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान्॥ शान्ति. १६७/२०॥

आसीनश्च शयानश्च विचरन्नपि वास्थितः।
अर्थयोगं दृढं कुर्याद् योगैरुच्चावचैरपि॥ शान्ति. १६७/२२॥

अस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः॥ शान्ति. १६७/२३॥

योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः।
तद्धि त्वामृतसंवादं तस्मादेतौ मताविह॥ शान्ति. १६७/२४॥

अनर्थस्य न कमोऽस्ति तथार्थोऽधर्मिणः कुत।
तस्मादुद्विजते लोको धर्मादर्थाद् यो बहिष्कृतः॥ शान्ति. १६७/२५॥

तस्माद् धर्मप्रधानेन साध्योऽर्थः संयतात्मना।
विश्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि॥ शान्ति. १६७/२६॥

धर्मं समाचरेत् पूर्वं ततोऽर्थं धर्मसंयुतम्।
ततः कामं चरेत् पश्चात् सिद्धार्थः स हि तत्परम्॥ शान्ति. १६७/२७॥

अनर्थं बाधते ह्यर्थो अर्थं चैव फलान्युत॥ अनु.१४५ दा.पा.अ.V॥

सुखमर्थवतां लोके कृच्छ्राणां विप्रमोक्षणम्॥ अनु.१४५ दा.पा.अ.V॥

परार्थं नाहरेद् द्रव्यमनामन्त्र्य तु सर्वदा॥ अनु.१४५ दा.पा.अ.V॥

अर्थवन्तं नरं नित्यं पञ्चाभिघ्नन्ति शत्रवः।
राजा चोरश्च दायादा भूतानि क्षय एव च॥
अर्थमेवमनर्थस्य मूलमित्यवधारय।
न ह्यनर्थाः प्रबाधन्ते नरमर्थविवर्जितम्॥ अनु.१४५ दा.पा.अ.VIV॥

अर्थप्राप्तिर्महद् दुःखमाकिंचन्यं परं सुखम्।
उपद्रवेषु चार्थानां दुःखं हि नियतं भवेत्॥ अनु.१४५ दा.पा.अ.VIV॥