महाभारतसूक्तयः (अविश्वासः)

यस्मिन्नाश्वसते कश्चिद् यश्च नाश्वसिति क्वचित्।
न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नमानसौ॥ शान्ति.१३८/५९॥

संक्षेपो नीतिशास्त्राणामविश्वासः परो मतः॥ शान्ति.१३८/१९६॥

नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः॥
वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि॥ शान्ति.१३८/१९७॥

विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः।
एकान्ततो न विश्वासः कार्यो विश्वासघातकैः॥ शान्ति.१३९/१२८॥

पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः।
मनो भवत्यविश्वस्तं कर्म त्रासयतेऽबलान्॥ शान्ति.१३९/३२॥

अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात्।
भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति॥ शान्ति.१४०/४५॥