महाभारतसूक्तयः (आशीर्वादः)

अगदं वोऽस्तु भद्रं वो॥ सभा.७८/२१॥

अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता॥ सभा.७९/६॥

नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम्॥ वन.३७/३२॥

ह्रीः श्रीः कीर्तिर्द्युतिः पुष्टिरुमा लक्ष्मीः सरस्वती।
इमा वै तव पान्थस्य पालयन्तु धनञ्जय॥ वन.३७/३३॥

प्रपद्येऽहं वसून् रुद्रानादित्यान् समरुद्गणान्।
विश्वेदेवांस्तथा साध्याञ्छान्त्यर्थं भरतर्षभ॥ वन. ३७/३५॥

स्वस्ति तेऽस्त्वन्तरिक्षेभ्यः पार्थिर्वेभ्यश्च भारत।
दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः॥ वन.३७/३६॥

कीर्तिरस्तु तवाक्षय्या जीव वर्षशतं सुखी।। वन.७८/२८॥

स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु॥ वन.२१६/३१॥

स्वस्ति ते चान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक।
दिव्येभ्यश्चैव भूतेभ्स्तथा तोयचराश्च ये॥ वन.३०८/१०॥

शिवास्ते सन्तु पन्थानो॥ वन.३०८/११॥

गच्छामि शिवं सुखं वः सौम्येन मां पश्यत चक्षुषा नृपाः॥ उद्योग.३०/२॥

कल्याणा वः सन्तु पतयोऽनुकूला यूयं पतीनां भवतानुकूलाः॥उद्योग.३०/३७॥

राजन् भद्रं ते॥ उद्योग.३६/६७॥

जीवन्तु राजन् सुखिनः समृद्धाः॥ उद्योग.३६/७२॥

आयुष्मन्तः कुरवः सन्तु सर्वे॥ उद्योग.४८/१०९॥

अनामयं स्वस्ति च॥ उद्योग.१४६/२७॥

आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः॥ आश्रमवास.३६/४०॥