महाभारतसूक्तयः (ईश्वरः)

धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये।
दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्॥ वन.३०/२२॥

यथा दारुमयी योषा नरवीर समाहिता।
ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः॥ वन.३०/२३॥

आकाश इव भूतानि व्याप्य सर्वाणि भारत।
ईश्वरो विदधातीह कल्याणं यच्च पापकम्।। वन.३०/२४॥

शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः।
ईश्वरस्य वशे तिष्ठेन्नान्येषां नात्मनः प्रभुः॥ वन.३०/२५॥

मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः।
स्त्रोतसो मध्यमापन्नः कूलाद् वृक्षः इव च्युतः॥ वन.३०/२६॥

धातुरादेशमन्वेति तन्मयो हि तदर्पणः।
नात्माधीनो मनुष्योऽयं कालं भजति कंचन॥ वन.३०/२७॥

अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः॥ वन.३०/२८॥

यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः।
धातुरेव वशं यान्ति सर्वभूतानि भारत॥ वन.३०/२९॥

आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वरः।
व्याप्य भूतानि चरते न चायमिति लक्ष्यते॥ वन.३०/३०॥

हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम्।
येन कारयते कर्म शुभाशुभफलं विभुः॥ वन.३०/३१॥

अन्यथा परिदृष्टानि मुनिभिस्तत्वदर्शिभिः।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः॥ वन.३०/३३॥

सम्प्रयोज्य वियोज्यायं कामकारकरः प्रभुः।
क्रीडते भगवान् भूतैर्बालः क्रीडनकैरिव॥ वन.३०/३७॥

उत सन्तमसन्तं वा बालं वृद्धं च संजय।
उताबलं बलीयांसं धाता प्रकुरुते वशम्॥ उद्योग.३१/१॥

परप्रयुक्तः पुरुषो विचेष्टते सूत्रप्रोता दारुमयीव योषा। उद्योग.३२/१३॥

यतो न वेदा मनसा सहैनमनुप्रविशन्ति ततोऽथमौनम्।
यत्रौत्थितो वेदशब्दस्तथायं स तन्मयत्वेन विभाति राजन्॥उद्योग.४३/२॥

तूष्णीम्भूत उपासीत न चेष्टेन्मनसापि च॥ उद्योग.४३/५९॥

रसैर्विमुक्तं विविधैश्च गन्धैरशब्दमस्पर्शमरूपव त्र्च।
अग्राह्यमव्यक्तमवर्णमेकं पञ्चप्रकारान् ससुजे प्रजानाम्॥ शा.२०१/२६॥

न स्त्री पुमान् नापि नपुंसकं च न सन्न चासत् सदसच्च तन्न।
पश्यन्ति यद् ब्रह्मविदो मनुष्यास्तदक्षरं न क्षरतीति विद्धि॥शा.२०१/२७॥

नोष्णं न शीतं मृदु नापि तीक्ष्णं नाम्लं कषायं मधुरं न तिक्तम्।
न शब्दवन्नपि च गन्धवत्तन्न रूपवत् तत् परमस्वभावम्॥ शा.२०२/३॥

न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः।
मनसा तु प्रदीपेन महानात्मा प्रकाशते॥ शान्ति.२३९/१६॥

अशब्दस्पर्शरूपं तदरसागन्धमव्ययम्।
अशरीरं शरीरेषु निरीक्षेत निरिन्द्रियम्॥ शान्ति.२३९/१७॥

यावानात्मनि वेदात्मा तावानात्मा परात्मनि।
य एवं सततं वेद सोऽमृतत्वाय कल्पते॥ शान्ति.२३९/२२॥

कालः पचति भूतानि सर्वाण्येवात्मनात्मनि।
यस्मिंस्तु पच्यते कालस्तं वेदेह न कश्चन॥ शान्ति.२३९/२५॥

विधूम इव सप्तार्चिरादित्य इव रश्मिमान्।
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि॥ शान्ति.३०६/२०॥

ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः।
करोति पुरुषः कर्म तत्र का परिदेवना॥ आश्व.३/२॥