महाभारतसूक्तयः (उन्नतिः)

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः।
समीक्ष्य च स समारभ्यो विद्धि मूलं भवस्य तु॥ उद्योग.३९/६८॥

अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम्॥ शान्ति.१५३/५१॥

अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च॥ शान्ति.१५३/११६॥
देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते॥