निकृत्योपचरन् वध्य एष धर्मः सनातन॥ वन.१२/७॥

निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः॥ वन.५२/२२॥

अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः॥ वन.२०७/५९॥

सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्॥ शान्ति.७९/२१॥

दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः।
ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः॥ शान्ति.८३/७॥

यथा काकाश्च गृध्राश्च तथैवोपधिजीविनः।
ऊर्ध्वं देहविमोक्षात् ते भवन्त्येतासु योनिषु॥ शान्ति.१०९/२९॥

यस्मिन यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः।
मायाचारो मायया बाधितव्यः साध्वाचारः साधुना प्रत्युपेयः॥ शान्ति.१०९/३०॥

व्याजेन विन्दन् वित्तं हि धर्मात् स परिहीयते॥ शान्ति.१३२/१८॥

न ह्यत्यन्तं बलवन्तो भवन्ति सुखिनोऽपि वा।
तस्मादनार्जवे बुद्धिर्न कार्या ते कदाचन॥ शान्ति.२५९/१४॥

याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः।
ब्रह्मस्तेना निरारम्भा दम्भमोहवशानुगाः॥ शान्ति.२६८/५३॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(कपटः)&oldid=15536" इत्यस्माद् प्रतिप्राप्तम्