महाभारतसूक्तयः (कल्याणस्य उपायः)

सम्यक्संकल्पसंबन्धान् सम्यक् चेन्द्रियनिग्रहात्।
सम्यग्व्रतविशेषाच्च सम्यक् च गुरुसेवनात्॥ वन.२/७८॥

सम्यागाहारयोगाच्च सम्यक् चाध्ययनागमात्।
सम्यक्कर्मोपसंन्यासात् सम्यक् चित्तनिरोधनात्॥ वन.२/७९॥

कर्म चेत्किंचिदन्यत् स्यादितरन्न समाचरेत्।
यत् कल्याणमभिध्यायेत् तत्रात्मानं नियोजयेत्॥ वन.२०४/४४॥

मृषा वादं परिहरेत् कुर्यात् प्रियमयाचितः।
न च कामान्न संरम्भान्न द्वेषाद् धर्ममुत्सृजेत्॥ वन.२०७/४२॥

विकर्मणा तप्यमानः पापाद् विपरिमुच्यते।
त तत् कुर्यां पुनरिति द्वितीयात् परिमुच्यते॥ वन.२०७/५१॥

काम लोभ ग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम्।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर॥ वन.२०७/७२॥

नित्यं क्रोधात् तपो रक्षेद् धर्मं रक्षेच्च मत्सरात्।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः॥ वन.२१३/२९॥

आनृशंस्यं परो धर्मः क्षमा च परमं बलम्।
आत्मज्ञानं परं ज्ञानं सत्यं व्रतपरं व्रतम्॥ वन.२१३/३०॥

न हिंस्यात् सर्वभूतानि मैत्रायणगतश्चरेत्।
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्॥ वन.२१३/३४॥

आकिञ्चन्यं सुसन्तोषो निराशित्वमचापलम्। शान्ति.३२९/१९॥

एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम्॥ वन.२१३/३५॥

नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्।
नान्यत्र लोभ संत्यागाच्छान्तिं पश्यामि तेऽनघ॥ उद्योग.३६/५१॥

बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्।
गुरुशुश्रूषुया ज्ञानं शान्तिं योगेन विन्दति॥ उद्योग.३६/५२॥

स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः।
तपसश्च सुतप्ततस्यान्ते सुखमेधते॥ उद्योग.३६/५४॥

हितं यत् सर्वभूतानामत्मनश्च सुखावहम्।
तत् कुर्यादीश्वरे ह्येतन्मूलं सर्वार्थ सिद्धये॥ उद्योग.३७/४०॥

मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम्।
भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्ण दर्शनम्॥ उद्योग.३९/५६॥

स्वधर्ममर्थं सर्वं कामं च त्रितयं योऽभिवाच्छति॥ द्रोण.७५/४२॥

रिक्तपाणिर्न पश्येत राजानं ब्राह्मणं स्त्रियम्॥ द्रोण.१७५/४३॥

द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्।
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्॥ शान्ति.१३/४॥

ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम्।
ततो ज्ञास्यसि कः कस्य केन वा कथमेव च॥ शान्ति.२५/२७॥

हितहितांस्तु बुद्ध्येथा मा परोक्षमतिर्भवेः॥ शान्ति.८२/३४॥

निगृहीतादमात्याश्च स्त्रीभ्यश्चैव विशेषतः।
पर्वतात् विषमाद् दुर्गाद्धस्तिनोऽश्वात् सरीसृपात्॥ शान्ति.९०/३१॥

एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत्।
अत्यागं चाभिमानं च दम्भं क्रोधं च वर्जयेत्॥ शान्ति.९०/३२॥

अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च।
परभार्यासु कन्यासु नाचेरन्मैथुनं नृपः॥ शान्ति.९०/३३॥

क्रोधं निहन्तुं यो वेद तस्य द्वेष्टा न विद्यते॥ शान्ति.९४/९॥

अनगतविधाता च प्रत्युत्पन्नमतिश्च यः।
द्वावेव सुखमेधेते दीर्घसूत्री विनश्यति॥ शान्ति.१३७/१॥

परीक्ष्यकारी युक्तश्च स सम्यगुपपादयेत्।
देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात्॥ शान्ति.१३७/२४॥

अप्रियं परुषं वापि परद्रोहं परस्त्रियम्।
अधर्ममनृतं चैव दूरात् प्राज्ञो विवर्जयेत्॥ शान्ति.१५३/८०॥

धर्मं सत्यं श्रुतं न्याय्यं महतीं प्राणिनां दयाम्।
अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत॥ शान्ति.१५३/८१॥

सोऽहं ह्यहिंस्त्रः सत्यार्थी कामक्रोधबहिष्कृतः।
समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्तवत्॥ शान्ति.१७५/३१॥

सर्वसाम्यमनायासं सत्यवाक्यं च भारत।
निर्वेदश्चाविधित्सा च यस्य स्यात् स सुखी नरः॥ शान्ति.१७७/२॥

क्षमिष्ये क्षिपमाणानां न हिंसिष्ये विहिंसितः।
द्वेष्ययुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम्॥ शान्ति.१७७/४३॥

निर्वेदं निर्वृत्ति तृप्तिं शान्तिं सत्यं दमं क्षमाम्।
सर्वभूतदयां चैव विद्धि मां समुपागतम्॥ शान्ति.१७७/४५॥

तस्मात् कामश्च लोभश्च तृष्णा कार्पण्यमेव च।
त्यजन्तुं मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम्॥ शान्ति.१७७/४६॥

तपोनित्येन दान्तेन मुनिना संयतात्मना।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना॥ शान्ति.१८९/१४॥

अविस्त्रम्भे न गन्तव्यं विस्त्रम्भे धारयेन्मनः।
मनः प्राणे निगृह्णीयात् प्राणं ब्रह्मणि धारयेत्॥ शान्ति.१८९/१६॥

शब्दादीन् विषयांस्तान्न संरागादयं व्रजेत्।
क्रोधो हर्षो विषादश्च जायन्तेह परस्परात्॥ शान्ति.२१२/८॥

गुरुपूजा च सततं वृध्दानां पर्युपासनम्।
श्रवणं चैव शास्त्राणां कूटस्थं श्रेय उच्यते॥ शान्ति.२८७/२॥

परेषां यदसूयेत न तत् कुर्यात् स्वयं नरः॥ शान्ति.२९०/२४॥

यदा व्यपेत हृल्लेखं मनो भवति तस्य वै।
नानृतं भवति तदा कल्याणमृच्छति॥ शान्ति.२९४/३१॥

निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता।
सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम्॥ शान्ति.३२९/७॥

नित्यं क्रोधात् तपो रक्षेच्छ्रियं रक्षेच्चमत्सरात्।
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः॥ शान्ति.३२९/११॥

न हि त्वां प्रस्थितं कश्चित् पृष्ठतोऽनुगमिष्यति।
सुकृतं दुष्कृतं च त्वां यास्यन्तमनुयास्यति॥ शान्ति.३२९/३५॥

त्यज धर्ममधर्मं च तथा सत्यानृते त्यज।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज॥ शान्ति.३२९/४०॥

त्यज धर्ममसंकल्पादधर्मं चाप्यलिप्सया।
उभे सत्यानृते बुध्द्या बुध्दिं परम निश्चयात्॥ शान्ति.३२९/४१॥