शुभैर्लभति देवत्वं व्यमिश्रैर्जन्म मानुषम्।
अशुभैश्चाप्यधो जन्म कर्मभिर्लभतेऽवशः॥ शान्ति.३२९/२५॥

तत्र मृत्युजरादुःखै सततं समभिदुतः।
संसारे पच्यते जन्तुस्तत्कथं नावबुद्ध्यसे॥ शान्ति.३२९/२६॥

वर्जयन्ति च पापानि जन्मप्रभृति ये नराः।
अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत॥ अनु.१११/१२९॥

तिर्यग्योन्याः शूद्रतामभ्युपैति शूद्रो वैश्यं क्षत्रियत्वं च वैश्यः।
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः॥ अनु.११८/२४॥

ये मृताः सहसा मर्त्या जायन्ते सहसा पुनः।
तेषां पौराणिकोऽभ्यासः कंचित् कालं हि तिष्ठति॥अनु.१४५ दा.पा.अ.IX॥

तस्माज्जातिस्मरा लोके जायन्ते बोधसंयुताः।
तेषां विवर्धतां संज्ञा स्वप्नवत् सा प्रणश्यति॥
परलोकस्य चास्तित्वे मूढानां कारणं त्विदम्॥ अनु.१४५ दा.पा.अ.IX॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(जन्म)&oldid=15611" इत्यस्माद् प्रतिप्राप्तम्