महाभारतसूक्तयः (तीर्थयात्रा)
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते॥ वन.८२/९॥
प्रतिग्रहादपावृत्तः सन्तुष्टो येन केनाचित्।
अहंकार निवृत्तश्च च तीर्थफलमश्नुते॥ वन.८२/१०॥
अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः।
विमुक्तः सर्वपापेभ्य़ः स तीर्थफलमश्नुते॥ वन.८२/११॥
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः।
आल्मोपमश्च भूतेषु स तीर्थफलमश्नुते॥ वन.८२/१२॥
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते॥ वन.८२/१७॥
तीर्थयात्रा भयापहा॥ वन.९२/१०॥
लघुर्भव महाराज लघुः स्वैरं गमिष्यसि॥ वन.९२/१८॥
क्षुत्तृडध्वश्रमायासशीतार्तिमसहिष्णवः॥ वन.९२/१९॥
ते सर्वे विनिवर्तन्तां ये च मिष्टभुजो द्विजाः।
पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः॥ वन.९२/२०॥
मनसा कृतशौचा वै शुद्धस्तीर्थानियास्यथ॥ वन.९३/२०॥
शाश्वतं परमं चैव धातारं परमं पदम्।
यं विदित्वा न शोचन्ति विद्वांसः शास्त्रदृष्टयः॥ वन.९०/३०॥
तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः।
आदि देवो महायोगी यत्रास्ते मधुसूदनः॥ वन.९०/३१॥
यास्तु लोके महानद्यस्ताः सर्वास्तीर्थसंज्ञिकाः।
तासां प्राक्स्त्रोतसः श्रेष्ठाः सङ्गमश्च परस्परम्॥ अनु.१४५ दा.पा.अ.XI॥
तासां सागरसंयोगो वरिष्ठश्चेति विद्यते।
तासामुभयतः कूलं तत्र तत्र मनीषिभिः॥
देवैर्वा सेवितं देवि तत् तीर्थं परमं स्मृतम्॥ अनु.१४५ दा.पा.अ.XI॥
समुद्रश्च महातीर्थं पावनं परमं शुभम्॥ अनु.१४५ दा.पा.अ.XI॥
स्रोतसां पर्वतानां च जोषितानां महर्षिभिः।
अपि कूलं तटाकं वा सेवितं मुनिभिः प्रिये॥
तत् तु तीर्थमिति ज्ञेयं प्रभावात् तु तपस्विनाम्॥अनु.१४५ दा.पा.अ.XI॥
तपोऽर्थं पापनाशार्थं शौचार्थं तीर्थगाहनम्॥ अनु.१४५ दा.पा.अ.XI॥