महाभारतसूक्तयः (देवता)

एकादशरुद्राः सम्पाद्यताम्

अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः।
ॠतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः॥ अनु.१५०/१२॥
वृषाकपिश्च शम्भुश्च हवनोऽथेश्वरस्तथा।
एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः॥ अनु.१५०/१३॥

द्वादशादित्याः सम्पाद्यताम्

अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः॥ अनु.१५०/१४॥
तथा धातार्यमा चैव जयन्तो भास्करस्तथा।
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते॥ अनु.१५०/१५॥
इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः।

अष्टवसवः सम्पाद्यताम्

धरोध्रुवश्च सोमश्च सावित्रोऽथालिनोऽनलः॥ अनु.१५०/१६॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः।

अश्विनीदेवते सम्पाद्यताम्

नासत्यश्चापि दस्रश्च स्मृतौ द्वावश्विनावपि॥ अनु.१५०/१७॥
मार्तण्डस्यात्मजावेतौ संज्ञा नासा विनिर्गतौ॥
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः॥ आश्व.४३/२१॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(देवता)&oldid=9162" इत्यस्माद् प्रतिप्राप्तम्