अर्थ प्राप्तौ तु नरकः कृत्स्न एवोपपद्यते।। आदि.१५६/२३॥

अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम्।
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्॥ आदि.१५६/२४॥

ममत्वं हि न कर्त्तव्यमैश्वर्ये वा धनेऽपि वा।
पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः॥ सभा.५५/१२॥

राजतः सलिलादग्नेश्चोरतः स्वजनादपि।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥ वन.२/३९॥

अर्थ एव हि केषांचिदनर्थं भजते नृणाम्।
अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः॥ वन.२/४१॥

धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता।
प्रक्षालनाद्धि पंकस्य श्रेयो न स्पर्शनं नृणाम्॥ वन.२/४९॥

यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः।
रक्षेत भृतकोऽरण्ये यथा गावस्तादृगेव सः॥ वन.३३/२४॥

अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति।
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः॥ वन.३३/२५॥

एष नार्थविहीनेन शक्यो राजन् निषेवितुम्।
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे॥ वन.३३/४७॥

अर्थेन तु समो नार्थो यत्र लभ्येत नोदयः।
न तत्र विपणः कार्यः खरकण्डूयनं हि तत्॥ वन.३३/६६॥

अर्थे च महती तृष्णा स च दुःखेन लभ्यते॥ वन.२५९/२८॥

परित्यज्य प्रियान् प्राणान् धनार्थं हि महामते।
प्रविशन्ति नरा वीराः समुद्रमटवीं तथा॥ वन.२५८/२९॥

धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते।
असंवृतं तद् भवति ततोऽन्यदवदीर्यते॥ उद्योग.३५/७०॥

सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः।
अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्द्यतः॥ उद्योग.३७/३८॥

अर्थसिद्धिं परामिच्छन् धर्मवादितश्चरेत्।
न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम्॥ उद्योग.३७/४८॥

अत्यार्यमतिदातारमतिशूरमतिव्रतम्।
प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति॥ उद्योग.३९/६३॥

न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च।
नैषा गुणान् कामयते नैर्गुण्यान्नानुरज्यते।
उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते॥ उद्योग.३९/६४॥

अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण वा।
अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः॥ उद्योग.३९/७५॥

अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदो द्विजाः।
अपुष्पफालाद् वृक्षाद् यथा कृष्ण पतत्रिणः॥ उद्योग.७२/२०॥

धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम्।
जिवन्ति धनिनो लोके मृता ये त्वधना नराः॥ उद्योग.७२/२३॥

न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः।
यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः॥ उद्योग.७२/२९॥

धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च॥ उद्योग.१३५/३८॥

धिगस्त्वर्थं यत्कृतेऽयं महान् ज्ञातिवधः कृतः॥ उद्योग.१४४/११॥

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्॥ भीष्म.४३/४१॥

अर्थाद् धर्मश्च कामश्च स्वर्गश्चैव नराधिप।
प्राणयात्रापि लोकस्य विना ह्यर्थं न सिद्ध्यति॥ शान्ति.८/१७॥

यस्यार्थास्तस्य मित्राणि यस्थार्स्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमाल्लोके यस्थार्थाः स च पण्डितः॥ शान्ति.८/१९॥

धनात् कुलं प्रभवति धनाद् धर्मः प्रवर्धते।
नाधनस्यास्त्ययं लोके न परः पुरुषोत्तम॥ शान्ति.८/२२॥

ईहेत धनहेतोर्यस्तस्यानीहा गरीयसी।
भूयान् दोषो हि वर्धेत यस्तं धनमुपाश्रयेत्॥ शान्ति.२०/७॥

यज्ञाय सृष्टानि धनानि धात्रा यज्ञोद्दिष्टः पुरुषो रक्षिता च। शान्ति.२६/२५॥

तस्मात् सर्वं यज्ञ एवोपयोज्यं धनं ततोऽनन्तर एव कामः॥ शान्ति.२०/१०॥

ये वित्तमभिपद्यन्ते सम्यक्त्वं तेषु दुर्लभम्।
दुह्यतः प्रैति तत् प्राहुः प्रतिकूलं यथातथम्॥ शान्ति.२६/२०॥

देवस्वमुपगृह्यैव धनेन न सुखी भवेत्॥ शान्ति.२६/२३॥

लब्धानामपि वित्तानां बोद्धव्यौ द्वावतिक्रमौ।
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम्॥ शान्ति.२६/३१॥

निर्मर्यादान् नित्यमर्थे निविष्टान्।
आहुस्तांस्तान् वै पशुभूतान् मनुष्यान्॥ शान्ति.६५/७॥

कुकुदं सर्वभूतानां धनस्थो नात्र संशयः॥ शान्ति.८८/३०॥

धृतिर्दाक्ष्यं संयमो बुद्धिरात्मा धैर्यं शौर्यं देशकालाप्रमादाः॥
अल्पस्य बा बहुर्नो वा विवृद्धौ धनस्यैतान्यष्ट समिन्धनानि॥ शान्ति.१२०/३७॥

धनेन जयते लोकावुभौ परमिमं तथा।
सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा॥ शान्ति.१३०/४३॥

अधनं दुर्बलं प्राहुर्धनेन बलवान् भवेत्।
सर्वं धनवतां प्राप्यं सर्वं तरति कोशवान्॥ शान्ति.१३०/४९॥

उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा।
तस्मात् कोशं बलं मित्रमथ राज्या विवर्धयेत्॥ शान्ति.१३३/५॥

नित्योद्विग्नो हि धनवान् मृत्योरास्यगतो यथा॥ शान्ति.१७६/११॥

धनवान् क्रोध लोभाभ्यामाविष्टो नष्टचेतनः।
तिर्यगीक्षः शुष्कमुखः पापको भृकुटिमुखः॥ शान्ति.१७६/१४॥

अथैनं रूपमानश्च धनमानश्च विन्दति।
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवल मानुषः॥ शान्ति.१७६/१७॥

इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रमाद्यति।
सम्प्रसाक्तमना भोगान् विसृज्य पितॄसंचितान्।
परिक्षीणः परस्वानामादानं साधु मन्यते॥ शान्ति.१७६/१८॥

संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः।
कदाचिन्मोक्ष्यसे मूढ धनेहां धनकामुक॥ शान्ति.१७७/२०॥

ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी।
लब्धनाशे यथा मृत्युर्लब्धं भवति वा न वा॥ शान्ति.१७७/२६॥

धननाशेऽधिकं दुःखं मन्ये सर्वमहत्तरम्।
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्च्युतम्॥ शान्ति.१७७/३४॥

दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः।
तं मन्यन्ते धनयुक्ताः कृपणैः सम्प्रवर्तितम्॥ शान्ति.२५९/१८॥

यदा नियति कार्पण्यमथैषामेव रोचते।
न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा॥ शान्ति.२५९/१९॥

न्यायागतं धनं चैव न्यायेनैव विवर्धितम्।
संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः॥ शान्ति.२९२/४॥

न तु वृद्धिमिहान्विच्छेत् कर्म कृत्वा जुगुप्सितम्॥ शान्ति.२९२/१८॥

येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान्।
धर्मं वै शाश्वतं लोके न जह्याद् धनकाङ्क्षया॥ शान्ति.२९२/१९॥

धनस्य यस्य राजतो भयं न चास्ति चोरतः।
मृतं च यन्न मुञ्चति समर्जयस्व तद् धनम्॥ शान्ति.३२१/४६॥

इहलोके हि धनिनां स्वजनः स्वजनायते।
स्वजनस्तु दरिद्राणां जीवितामपि नश्यति॥ शान्ति.३२१/८८॥

धनेन किं यन्न ददाति नाश्नुते बलेन किं येन रिपुं न बाधते।
श्रुतेन किं येन न धर्ममाचरेत् किमात्मना यो न जितेन्द्रियो वशी॥शान्ति.३२१/९३॥

त्यज्यन्ते दुःखमर्था हि पालने न च ते सुखाः।
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत्॥ शान्ति.३३०/१८॥

न्याय्यस्यार्थस्य सम्प्राप्तिं कृत्वा फलमुपाश्नुते॥ शान्ति.३६०/११॥

अर्थाश्च नार्यश्च समानमेतच्छ्रेयांसि पुंसामिह मोहयन्ति।
रतिप्रमोदात् प्रमदा हरन्ति भोगैर्धनं चाप्युपहन्ति धर्मान्॥अनु.२२ दा.पा.॥

धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम्।
कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः॥ अनु.१४१/७८॥

एकेनांशेन धर्मार्थौ कर्तव्यौ भूतिमिच्छता।
एकेनांशेन कामार्थ एकमंशं विवर्धयेत्॥ अनु.१४१/७९॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(धनम्)&oldid=15600" इत्यस्माद् प्रतिप्राप्तम्