महाभारतसूक्तयः (निन्दा)
<poem> परवाच्येषु निपुणः सर्वो भवति सर्वदा। आत्मवाच्यं न जानीते जानन्नपि च मुह्यति॥ कर्ण.४५/४४॥
न वाच्यः परिवादोऽयं न श्रोतव्यः कथंचन। कर्णावथ पिधातव्यौ प्रस्थेयं चान्यतो भवेत्॥ शान्ति.१३२/१२॥
असतां शीलमेतद् वै परिवादोऽथ पैशुनम्॥ शान्ति.१३२/१३॥
विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसम्मतैः। कुत्सा संजायते राजंल्लोकान् प्रेक्ष्याभिशाम्यति॥ शान्ति.१६३/१८॥
न चक्षुषा न मनसा न वाचा दूषयेदपि। न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत् क्वचित्॥ शान्ति.२७८/४॥
सतां गुरूणां वृद्धानां कुलस्त्रीणां विशेषतः। परिवादं न च ब्रूयात् परेषामात्मनस्तथा॥ अनु.१०४/१२९॥