महाभारतसूक्तयः (पण्डितः)

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः॥ भीष्म.२६/११; गीता.२/११॥

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥ भीष्म.२८/१८; गीता.५/१८॥

यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥ भीष्म.२८/१९; गीता.४/१९॥

यस्मादभावी भावी वा भवेदर्थो नरं प्रति।
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद् व्यथते बुधः॥ कर्ण.२/२५॥

सुखं च दुखं च भवाभवौ च लाभालाभौ मरणं जीवितं च।
पर्यायतः सर्वमवाप्नुवन्ति तस्माद् धीरो नैव हृष्येन्न शोचेत्॥ शान्ति.२५/३१॥

शकुनीनामिवाकाशे मत्स्यानामिव चोदके।
पदं यथा न दृश्यन्ते तथा ज्ञानविदां गतिः॥ शान्ति.१८१/१९॥

ॠषींश्च देवांश्च महासुरांश्च त्रैविद्यवृध्दांश्च वने मुनींश्च।
कानापदो नोपनमन्ति लोके परावरज्ञास्तु न सम्भ्रमन्ति॥ शान्ति.२२६/१४॥

न पण्डितः क्रुध्यति नाभिपद्यते न चापि संसीदति न प्रदुष्यति।
न चार्थकृच्छ्रव्यसनेषु शोचते स्थितः प्रकृत्या हिमवानिवाचलः॥ शान्ति.२२६/१५॥

यमर्थसिध्दिः परमा न मोहयेत् तथैव काले व्यसनं न मोहयेत्।
सुखं च दुःखं च तथैव मध्यमं निषेवते यः स धुरंधरो नरः॥ शान्ति.२२६/१६॥

प्रभवत् पृच्छते यो हि सम्मानयति वा पुनः।
नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति॥ अनु.१४६/२८॥

ज्ञानविज्ञानसम्पन्नानूहापोह विशारदान्।
प्रवक्तृन् पृच्छते योऽन्यान् स वै नापदमृच्छति॥ अनु.१४६/२९॥