महाभारतसूक्तयः (प्रकृतिः पुरुषश्च)

(महाभारतसूक्तयः (प्रकृतिः तथा पुरुषः) इत्यस्मात् पुनर्निर्दिष्टम्)

अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि॥ शान्ति. २१७/७॥

उभौ नित्यावविचलौ महदभ्यश्च महत्तरौ।
सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम्॥ शान्ति. २१७/८॥

प्रकृत्या सर्गधर्मिण्या तथा त्रिगुणधर्ममया।
विपरीतमतो विद्यात् क्षेत्रज्ञस्य स्वलक्षणम्॥ शान्ति. २१७/९॥

प्रकृतेश्चविकाराणां द्रष्टारमगुणान्वितम्।
अग्राह्यौ पुरुषावेतावलिङ्गगत्वादसंहतौ॥ शान्ति. २१७/१०॥

संयोग लक्षणोत्पत्तिः कर्मणा गृह्यते यथा।
करणैः कर्मनिर्वृत्तिः कर्ता यद् यद् विचेष्टते॥
कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषो ऽप्यसाविति॥ शान्ति. २१७/११॥

संवृत्तोऽयं तथा देही सत्त्वराजसतामसैः॥ शान्ति. २१७/१२॥

प्रकृत्यास्तु विकारा ये क्षेत्रज्ञस्तैरधिष्ठितः।
न चैनं ते प्रजानन्ति स तु जानाति तानपि॥ शान्ति. २४६/१॥

तैश्चैवं कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः।
सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः॥ शान्ति. २४६/२॥

इन्द्रियेभ्यः परे ह्यर्थाः अर्थेभ्यः परं मनः।
मनसस्तु परा बुद्धिर्बुद्धिरात्मा महान् परः॥ शान्ति. २४६/३॥

महतः परमव्यक्तमव्यक्तात् परतोऽमृतम्।
अमृतान्न परं किंचित् सा काष्ठा सा परा गतिः॥ शान्ति. २४६/४॥

एवं सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते।
दृश्यते त्वग्य्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः॥ शान्ति. २४६/५॥

अन्तरात्मनि संलीय मनः षष्ठानि मेधया।
इन्द्रियाणीन्द्रियार्थांश्च बहुचिन्त्यमचिन्तयन्॥ शान्ति. २४६/६॥

ध्यानेनोपरमं कृत्वा विद्यासम्पादितं मनः।
अनीश्वरः प्रशान्तात्मा ततोऽर्च्छत्यमृतं पदम्॥ शान्ति. २४६/७॥

इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः।
आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते॥ शान्ति. २४६/८॥

आहत्य सर्वसंकल्पान् सत्त्वे चित्तं निवेशयेत्।
सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत्॥ शान्ति. २४६/९॥

चित्तप्रसादेन यतिर्जहातीह शुभाशुभम्।
प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमत्यन्तमश्नुते॥ शान्ति. २४६/१०॥

लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं स्वपेत्।
निवाते वा यथा दीपो दीप्यमानो न कम्पते॥ शान्ति. २४६/११॥

एवं पूर्वापरे काले युञ्जन्नात्मानमात्मनि।
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि॥ शान्ति. २४६/१२॥