महाभारतसूक्तयः (प्रत्युपकारः)

यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः॥ आदि.१५६/१४॥

एतावानेन पुरुषः कृतं यस्मिन् न नश्यति॥ आदि.१६१/१४॥

यावच्च कुर्यादन्योऽस्य कुर्याद् बहुगुणं ततः॥ आदि.१६१/१५॥

कृतं शतगुणं कुर्यात्॥ वन.१९४/५॥

यस्य चार्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत्।
न तस्य पर्णं दुह्येत पूर्ववृत्तमनुस्मरन्॥ विराट.१६/१९ दा.पा.॥

इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत् प्रियम्॥ उद्योग.६०/७॥

जीवितस्य प्रदातारं कृतज्ञः को नु पूजयेत्॥ शान्ति.१३८/१३१॥