महाभारतसूक्तयः (बुभुक्षा)

सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा।
क्षुत् स्वादुतां जनयति सा चाढ्येषु दुर्लभा॥ उद्योग. ३४/५०॥

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते।
जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते॥ उद्योग. ३४/५१॥

क्षुधितः कलुषं यातो नास्ति ह्रीरशनार्थिनः॥ शान्ति. १४१/५१॥

बालानां क्षुद् बलवती॥ आश्व. ८०/६१॥

क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह।
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवं॥ आश्व. ९०/९१॥