महाभारतसूक्तयः (ब्रह्मज्ञानी)

धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्॥ आदि. १७४/४५॥

प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्।
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः॥ वन.७१/३१॥

येन पूर्णमिवाकाशं भवत्येकेन सर्वदा।
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः॥ शान्ति. २४५/११॥

येन केनचिदाच्छान्नो येन केनचिदाशितः।
यत्र क्वचनशायी च तं देवा ब्राह्मणं विदुः॥ शान्ति. २४५/१२॥

अहेरिव गणाद् भीतः सौहित्यान्नरकादिव।
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः॥ शान्ति. २४५/१३॥

न क्रुद्ध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः।
सर्वभूतेष्वभयदस्तं देवा ब्राह्मण विदुः॥ शान्ति. २४५/१४॥

विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम्।
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः॥ शान्ति. २४५/२२॥

जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च।
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः॥ शान्ति. २४५/२३॥

निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्।
निर्मुक्तं बन्धनैः सर्वैस्तं देवा ब्राह्मणं विदुः॥ शान्ति. २४५/२४॥

प्रादेशमात्रे हृदि निःसृतं यत् तस्मिन् प्राणानात्मयाजी जुहोति।
तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदेवकेषु॥ शान्ति. २४५/२८॥

अगर्हणीय न च गर्हतेऽन्यान् स वै विप्रः परमात्मनमीक्षेत्।
विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च सोऽऽन्नमृच्छति॥ शान्ति. २४५/३५॥

ज्ञातिवत् सर्वभूतानां सर्ववित् सर्ववेदवित्।
नाकामो म्रियते जातु न तेन न च वै द्विजः॥ शान्ति. २५१/३॥

यदा चायं न बिभेति यदा चास्मान्न बिभ्यति। शान्ति. ३२६/३३॥

यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा॥ शान्ति. २५१/५॥

यदा न कुरुते भावं सर्वभूतेषु पापकम्। शान्ति. ३२६/३४॥

कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ शान्ति. २५१/६॥

कामबन्धनमेवैकं नान्यदस्तीह बन्धनम्।
कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते॥ शान्ति. २५१/७॥

कामतो मुच्यमानस्तु धूम्राभ्रादिव चन्द्रमाः।
विरजाः कालमाकाङ्क्षन् धीरो धैर्येण वर्तते॥ शान्ति. २५१/८॥

स कामकान्तो न हि कामकामः।
स वै कामात् स्वर्गमुपैति देही॥ शान्ति. २५१/१०॥

वेदस्योपनिषत् सत्यं सत्यस्योपनिषद् दमः।
दमस्योपनिषद् दानं दानस्योपनिषत् तपः॥ शान्ति. २५१/११॥

तमसोपनिषत् त्यागस्त्यागस्योपनिषत् सुखम्।
सुखस्योपनिषत् सवर्गः स्वर्गस्योपनिषच्छमः॥ शान्ति. २५१/१२॥

क्लेदनं शोकमनसो संतापं तृष्णया सह।
सत्त्वमिच्छसि संतोषाच्छान्तिलक्षणमुत्तमम्॥ शान्ति. २५१/१३॥

विशोको निर्ममः शान्तः प्रसन्नात्मा विमत्सरः।
षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति॥ शान्ति. २५१/१४॥

षड्भिः सत्त्वगुणोपेतैः प्राज्ञैरधिगतं त्रिभिः।
ये विदुः प्रेत्य चात्मानमिहस्थं तं गुणं विदुः॥ शान्ति. २५१/१५॥

अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम्।
अध्यात्मं सुकृतं प्राप्तः सुखमव्ययमश्नुते॥ शान्ति. २५१/१६॥

निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वशः।
यामयं लभते तुष्टिं सा न शक्याऽऽत्मनोऽन्यथा॥ शान्ति. २५१/१७॥

येन तृप्यत्यभुञ्जानो येन तृप्यत्यवित्तवान्।
येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित्॥ शान्ति. २५१/१८॥

संगुप्तान्यात्मनो द्वाराण्यपिधाय विचिन्तयन्।
यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते॥ शान्ति. २५१/१९॥

समाहितं परे तत्त्वे क्षीणकाममवस्थितम्।
सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा॥ शान्ति. २५१/२०॥

अविशेषाणि भूतानि गुणांश्च जहतो मुनेः।
सुखेनापोह्यते दुःखं भास्करेण तमो यथा॥ शान्ति. २५१/२१॥

तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम्।
ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः॥ शान्ति. २५१/२२॥

स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते।
इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते॥ शान्ति. २५१/२३॥

कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम्।
पुनरावर्तनं नास्ति सम्प्राप्तस्य परं पदम्॥ शान्ति. २५१/२४॥

आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम्।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा शमस्तथा॥ शान्ति. २७०/३९॥

पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यप्तरम्॥ शान्ति. २७०/४०॥

वेदांश्च वेदितव्यं च विदित्वा च यथास्थितिम्।
एवं वेदविदित्याहुरतोऽन्यो वातरेचकः॥ शान्ति. २७०/४२॥

सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम्।
वेदे हि निष्ठा सर्वस्य यद् यदस्ति च नास्ति च॥ शान्ति. २७०/४३॥

एतदन्तं च मध्यं च सच्चासच्च विजानतः॥ शान्ति. २७०/४४॥

न वृत्तं मन्यते तस्य मन्यते न च पातकम्।
तथा स्वकर्म विर्वृत्तं न पुण्यं न च पापकम्॥ अनु. १२०/२४॥

एकधा बहुधा चैव विकुर्वाणस्ततस्ततः॥ आश्व. ४२/६०॥

ध्रुवं पश्यति रूपाणि दीपाद् दीपशतं यथा।