महाभारतसूक्तयः (भिक्षा)

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने।
अतीतपात्रसंचारे भिक्षां लिप्सेत वै मुनिः॥ शा. २७८/९॥

प्राणयात्रिकमात्रः स्यान्मात्रालाभेष्वनादृतः।
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत्॥ शा. २७८/१०॥

न चान्नदोषान् निन्देत न गुणानभिपूज्येत्॥ शा. २७८/१२॥

यात्रार्थी कालमाकाङ्क्षंश्चरेद् भैक्ष्यं समाहितः।
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः॥ आश्व. ४६/२१॥