महाभारतसूक्तयः (भीरुः)
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः॥ उद्योग.१३३/८॥
सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः॥
सुसन्तोषः कापुरुषः स्वल्पकेनैव तुष्यति॥ उद्योग.१३३/९॥
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम्।
राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान्॥ उद्योग.१३३/२२॥
दाने तपसि सत्ये च यस्य नोच्चरितं यशः।
विद्यायामर्थलाभे वा मातुरुच्चार एव सः॥ उद्योग.१३३/२३॥
श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा।
जनान् योऽभिभवत्यन्यान् कर्मणा हि स वै पुमान्॥ उद्योग.१३३/२४॥
निरमर्षं निरुत्साहं निर्वीयमरिनन्दनम्।
मा स्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम्॥ उद्योग.१३३/३०॥
एतावानेव पुरुषो यदमर्षी यदक्षमी।
क्षमावान् निरमर्षश्च नैव स्त्री न पुनः पुमान्॥ उद्योग.१३३/३२॥
क्लीबा हि वचनोत्तराः॥ उद्योग.१६२/४४॥
परवीर्यं समाश्रित्य यः समाह्वयते परान्।
अशक्तः स्वयमादातुमेतदेव नपुंसकम्॥ उद्योग.१६२/५५॥
कृपणं विलपन्नार्तो जरयाभिपरिप्लुतः।
म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः॥ शल्य.५/३४॥