महाभारतसूक्तयः (मन्त्री)

कुलीनाञ्शीलसम्पन्नानिङ्गितज्ञाननिष्ठुरान्।
देशकाल विधानज्ञान् भर्तृकार्यहितैषिणः॥ शान्ति. ८३/८॥

नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः।
येषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना।
तेजो धैर्यं क्षमा शौचमनुरागः स्थितिर्धृतिः॥ शान्ति. ८३/२१॥

परीक्ष्य च गुणान् नित्यं प्रौढभावान् धुरन्धरान्।
पञ्चोपधाव्यतीतांश्र्च कुर्याद् राजार्थकारिणः॥ शान्ति. ८३/२२॥

मन्त्रिणां च भवेत् क्रोधो विस्फूर्जितमिवाशनेः॥ शान्ति. ८३/३३॥

कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः।
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति॥ शान्ति. ८३/४१॥

सर्वलोकमिमं शक्तः सान्त्वेन कुरुते वशे।
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप॥ शान्ति. ८३/४५॥

स्वासु प्रकृतिषुच्छिद्रं लक्षयेरन् परस्य च।
मन्त्रिणां मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते॥ शान्ति. ८३/४८॥

सहायाननुरक्तांश्च नयज्ञानुपसंहितान्।
परस्परमसंसृष्टान् विजिगीषूनलोलुपान्॥ शान्ति. १११/२३॥

अनतीतोपधान् प्राज्ञान् हिते युक्तान् मनस्विनः।
पूजयेथा महाभाग यथाऽऽचार्यान् यथा पितॄन्॥ शान्ति. १११/२४॥

मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः।
नृपतेर्मतिदा सन्तः सम्बन्धज्ञानकोविदाः॥ शान्ति. ११५/१६॥

अनागतविधातारः कलज्ञानविशारदाः।
अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते॥ शान्ति. ११५/१७॥

अमात्यानुपधातीतान् पितृपैतामहाञ्शुचीन्।
दान्तान् कर्मसु पुण्यांश्च पुण्यान् सर्वेषु योजयेः॥ आश्र. ५/१४॥

मन्त्रिणश्चैव कुर्वीथा द्विजान् विद्याविशारदान्॥ आश्र. ५/२०॥

विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून्।
तैः सार्धं मन्त्रयेयास्त्वं नात्यर्थं बहुभिः सह॥ आश्र. ५/२१॥