महाभारतसूक्तयः (मूर्खः)

यः सौहृदे पुरुषं स्थापयित्वा पश्चादेनं दूषयते स बालः॥ सभा. ६४/१३॥

न श्रेयसे नीयते मन्दबुद्धिः स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा।
ध्रुवं न रोचेद् भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः॥ सभा. ६४/१४॥

शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च।
न वै वृद्धो बालमतिर्भवेद् राजन् कथंचन॥ सभा. ७५/७॥
असन्तोषपरा मूढा सन्तोषं यान्ति पण्डिताः॥ वन. २/४५॥

मूर्खान् सर्वत्र वर्जयेत्॥ वन. १५०/४५॥

मृदुं वै मन्यते पापो भाषमाणमशक्तिकम्।
जितमर्थं विजानीयादबुधो मार्दवे सति॥ उद्योग. ४/६॥

विद्याशीलवयोवृद्धान् बुद्धिवृद्धांश्च भारत।
धनाभिजात वृद्धांश्च नित्यं मूढोऽवमन्यते॥ उद्योग. ३८/३४॥

अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम्।
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा॥ उद्योग. ३८/३५॥

यथा चाल्पश्रुतो मूढो धर्माणामविभागवित्।
वृद्धानपृष्ट्वा सन्देहं महच्छ्वभ्रमिवार्हति॥ कर्ण. ६९/५३॥

शास्त्रदृष्टानविद्वान् यः समतीत्य जिघांसति। सौत्पिक. ६/२०॥

स पथः प्रच्युतो धर्मात् कुपथे प्रतिहन्यते। सौत्पिक. ६/२१॥

स्वयमुत्पादयित्वाग्निं वस्त्रेण परिवेष्टयन्।
दह्यमानो मनस्तापं भजते न स पण्डितः॥ स्त्री. १/३९॥

गृहस्नेहावबद्धानां नराणामल्पमेधसाम्।
कुस्त्री खादति मांसानि माघमां सेगवा इव॥ शान्ति. १३९/८९॥

गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे।
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये॥ शान्ति. १३९/९०॥

प्रमाणमप्रमाणं वै यः कुर्यादबुधो जनः।
न स प्रमाणतामर्हो विवादजननो हि सः॥ अनु. १६२/२५॥

सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति॥ आश्व. ५०/१७॥