महाभारतसूक्तयः(लक्ष्मीः)

(महाभारतसूक्तयः (लक्ष्मीः) इत्यस्मात् पुनर्निर्दिष्टम्)

अध्रुवा सर्वमर्त्येषु श्रीरुपालक्ष्यते भृशम्॥ शल्य. ६५/२०॥

यामेतां प्राप्य जानीषे राज्यश्रियमनुत्तमाम्।
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति॥ शान्ति. २२४/५८॥

स्थिता हीन्द्र सहस्रेषु त्वद्विशिष्टतमेष्वियम्।
मां च लोला परित्यज्य त्वामागाद् विवुधाधिप॥ शान्ति. २२४/५९॥

आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः॥ शान्ति. २२५/७॥

भूतिर्लक्ष्मीति मामाहुः श्रीरित्येव च वासव।
सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि।
पराक्रमे च धर्मे च पराचीनस्ततो बलिः॥ शान्ति. २२५/१२॥

नैव देवो न गन्धर्वो नासुरो न च राक्षसः।
यो मामेको विषहितुं शक्तः कश्चित् पुरन्दर॥ शान्ति. २२५/१७॥

ममेयमिति मोहात् त्वं राज्यश्रियमभीप्ससि।
नेयं तव न चास्माकं न चान्येषां स्थिरा सदा॥ शान्ति. २२७/४५॥

अतिक्रम्य बहूनन्यांस्त्वयि तावदियं गता।
कंचित् कालमियं स्थित्वा त्वयि वासव चञ्चला॥ शान्ति. २२७/४६॥

गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति।
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि।
प्रश्रिते दानशीले च सदैव निवसाम्यहम्॥ शान्ति. २२८/२६॥

स्वधर्ममनुतिष्ठत्सु धैर्याक्चलितेषु च।
स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम्॥ शान्ति. २२८/२९॥

अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम्।
न श्रीः संत्यज्यते नित्यमादित्यमिव रश्मयः॥ शान्ति. २९८/४३॥

वसामि नित्यं सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने।
अक्रोधने दैवपरे कृतज्ञे जितेन्द्रिये नित्यमुदीर्णसत्वे॥ अनुशासन. ११/६॥

नाहं शरीरेण वसामि देवि नैवं मया शक्यमिहाभिधातुम्।
भावेन यस्मिन् निवसामि पुंसि स वर्धते धर्मयशोऽर्थकामैः॥ अनु. ११/२१॥

नित्यं निवसते लक्ष्मी कन्यकासु प्रतिष्ठिता।
शोभना शुभयोग्या च पूज्या मङ्गलकर्मषु॥ अनु. २२ दा. पा.॥

एवं कन्या परा लक्ष्मी रतिस्तोषश्च देहिनाम्।
महाकुलानां चारित्रं वृत्तेन निकषोपलम्॥ अनु. २२ दा. पा.॥

श्रिया ह्यभीक्ष्णं संवासो दर्पयेत् सम्प्रमोहयेत्॥ अनु. ६१/२०॥