महाभारतसूक्तयः(सम्बन्धी)

(महाभारतसूक्तयः (सम्बन्धी) इत्यस्मात् पुनर्निर्दिष्टम्)

यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् ॥ उद्योग् ३९/१७

स पुत्र पशुभिवृद्धिं श्रेयश्चात्मानश्नुते ।
ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः सुखम् ॥ उद्योग् ३९/१८

विगुणा ह्यापि संरक्ष्या ज्ञातयो भरतर्षभ ॥ ऊद्योग् ३९/२०

ज्ञातिभिर्विग्रहस्तात न कर्तव्यः शुभार्थिना ।
सुखानि सह भोजयानि ज्ञातिभिर्भरतषभ ॥ ऊद्योग् ३९/२३

सम्भोजनं संकथनं सम्प्रीतिश्च परस्परम् ।
ज्ञातिभिः सह कार्याणि न विरोधः कदाचन ॥ ऊद्योग् ३९/२४

ज्ञातयस्तारयन्तिह ज्ञातयो मज्जयन्ति च ।
सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च ॥ ऊद्योग् ३९/२५

क्षुद्रं जातिवधं प्राहुः ॥ भीष्म ३/५३

मातापित्रुसहस्त्राणि पुत्रदारशतनि च ।
संसारेश्वनुभूतानि कस्य ते कस्य वा वयम् ॥ शान्ति २८/३८