महामत्स्यतीरन्यायः
महान् मत्स्यः तीरात् तीरान्तरं प्रति गच्छति । तदा सः तीरात् भिन्नः न भवति । तीरस्य कोऽपि परिणामः तस्मिन् न भवति । तथैव आत्मा जाग्रदादिस्थितिषु सर्वत्र स्पन्दते चेदपि तासां कोऽपि परिणामः आत्मनि न भवति । स सर्वथा निर्लिप्त एव भवति इति भावः । यथाः महामत्स्य उभे कूले सञ्चरति पूर्वं च अपरं च । एवमेवायं पुरुष एतान् सञ्चरति स्वप्नान्तं बुद्धान्तं चेति ॥ बृहदारण्यकोपनिषद् ४-३-१८