सुभाषितम्

मातृवत् परदारेषु परद्रव्येषु लोष्टवत् ।
आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥

हितोपदेशः-मित्रलाभः-१४

mātṛvat paradāreṣu paradravyeṣu loṣṭavat ।
ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ ॥

पदच्छेदः

मातृवत्, परदारेषु, परद्रव्येषु, लोष्टवत्, आत्मवत्, सर्वभूतेषु, यः, पश्यति, सः, पण्डितः ॥


तात्पर्यम्

अन्येषां भार्या मातृसमाना, अन्येषां धनं मृत्समानं, सर्वे अपि जीविनः आत्मसमानाः - इति भावयन् यः आचरति सः वस्तुतः ज्ञानी ।


आङ्ग्लार्थः

He is a wise man who sees the wives of others as his mother, the wealth of others like clod of earth and all beings as his own self.

"https://sa.wikiquote.org/w/index.php?title=मातृवत्_परदारेषु...&oldid=17854" इत्यस्माद् प्रतिप्राप्तम्