मात्स्यन्यायः
महान् मत्स्यः अल्पप्रमाणं मत्स्यं निगिलति । एवं बलवन्तः जनाः अल्पबलान् दिर्बलान् वा जनान् पीडयन्ति इतिभावः । <poem> यथा – १. दुर्बलं बलवन्तो हि मत्स्या मत्स्यविशेषतः ।
भक्षयन्ति सदा वृत्तिर्विहिता नः सनातनी ॥ महाभारते ३-१८५-८
२ राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः ।
जले मत्स्यानिवाभक्ष्यन् दुर्बलं बलवत्तराः ॥ अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् । परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ॥ महाभारते १३-६७, १६,१७
३(दण्डः) अप्रणीतो हि मात्स्यन्यायम् उद्भावयति ।
बलीयान् अबलं हि ग्रसते दण्डधराभावे । कौटिलीये १-४