माभि द्रुहः ॥
माभि द्रुहः ॥ (अथर्ववेदः ९-५-४)
सम्पाद्यताम्द्रोहः न आचर्यताम्
- द्रोहस्य अनुभवः यावत् न प्राप्येत तावत् अस्माभिः तेन जन्यमानं नष्टं हिंसादयः न अवगम्यन्ते एव ! केचन अनुभवं प्राप्य अपि द्रोहकरणं न परित्यजन्ति एव !! द्रोहस्य प्रतिद्रोहः एव प्रत्युत्तरम् इत्येषः एव तेषाम् अवगमनस्तरः !!!
- अनिष्टस्य करणम्, अन्यस्य उपरि तस्य आरोपणं, यत्र विश्वासः ततः आक्रमणम् इत्यादीनि द्रोहकार्याणि । वैचित्र्यं नाम द्रोहस्य आदिमताडनं द्रोहिणा एव प्राप्यते, तदनन्तरमेव अन्यैः !! इष्टानिष्टानां रूपणावसरे सर्वेषां हितं मनसि निधातव्यम् । अन्येषाम् उपरि आरोपणं कदापि न समीचीनम् । अस्मदुपरि तथा क्रियेत चेत् कथमिति सकृत् चिन्त्यताम् । स्वास्थ्यकरं यत् तत् अवगत्य अङ्गीकर्तव्यम् । तत् आरोपणमिति न भावितव्यम् । जागरणं यथा वर्धेत तथा अनिरीक्षितम् इत्येतत् न्यूनं भविष्यति । विश्वासाघातः क्रियमाणः अस्ति इत्येतत् आदौ अवगम्यते विश्वासाघातकेन एव ! अहं विश्वासार्हः नास्मि इत्येतत् विश्वासाघातकेन एव ज्ञायते ! द्रोहिणः ! स्वस्य योग्यतां स्वयमेव यत् नाश्यते सः आत्मघातः, आत्मद्रोहः ।